📚 नवग्रहस्तोत्रम्
📚 नवग्रहस्तोत्रम्
✅ Proofread
Actions
Save Book
🎨 Reading Font Style Noto Serif
↔️ Text Alignment Center
अथ नवग्रहस्तोत्रम् सूर्य:- जपाकुसुमसङ्काशं काश्यपेयं महाद्यु तिम् । तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकर । म् चन्द्रः- दधिशङ्खतुषाराभं क्षीरोदार्णवसन्नि भम् । नमामि शशिनं देवं शम्भोर्मुकुटभूषणम् ॥ १ ॥ कुजः- धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्र भम् । कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यह । म् बुधः- प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बु धम् । सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥ २ ॥ गुरुः- देवानां च ऋषीणां च गुरुं काञ्चनसन्नि भम् । बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पति । म् शुक्रः- हिमकुन्दसमाभासं दैत्यानां परमं गु रुम् । सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥ ३ ॥ शनिः- नीलाञ्जनसमाभासं रविपुत्रं यमाग्र जम् । छायामार्ताण्डसम्भूतं तं नमामि शनैश्चर । म् राहु:- अर्धकायं महावीरं चन्द्रादित्यविमर्द नम् । सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम् केतुः- पलाशपुष्पसङ्काशं तारकाग्रहमस्तकम् । रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥ ४ ॥ ॥ इति नवग्रहस्तोत्रम् ॥