📚 दुर्गास्तोत्रम्
📚 दुर्गास्तोत्रम्
✅ Proofread
Actions
Save Book
🎨 Reading Font Style Noto Serif
↔️ Text Alignment Center
अथ दुर्गास्तोत्रम् विराटनगरं रम्यं गच्छमानो युधिष्ठिरः । अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥ १ ॥ यशोदागर्भसम्भूतां नारायणवरप्रियाम् । नन्दगोपकुले जातां माङ्गल्यां कुलवर्धनीम् ॥ २ ॥ कंसविद्रावणकरीमसुराणां क्षयङ्करीम् । शिलातले विनिक्षिप्तामाकाशं प्रतिगामिनीम् ॥ ३ ॥ वासुदेवस्य भगिनीं दिव्यमालाविभूषिताम् । दिव्याम्बरधरां देवीं खड्गखेटकधारिणीम् ॥ ४ ॥ भारावतरणे पुण्ये ये स्मरन्ति सदा शिवाम् । तान् वै तारयते पापात् पङ्के गामिव दुर्बलाम् ॥ ५ ॥ स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसम्भवैः । आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः ॥ ६ ॥ राजोवाचनमोऽस्तु व रदे कृष्णे कुमारि ब्र । ह्मचारिणि । बालार्कस दृशाकारे पूर्णचन्द्रनिभानने ॥ ७ ॥ चतुर्भुजे तनुमध्ये पीनश्रोणिपयोधरे । मयूरपिच्छवलये केयूराङ्गदभूषणे ॥ ८ ॥ भासि देवि यथा पद्मा नारायणपरिग्रहा । स्वरूपं ब्रह्मचर्यं च विशदं तव ॥ ९ ॥ खेचरि कृष्णच्छविस मा कृष्णा सङ्कर्षणस । मानना । बिभ्रती विपु लौ बाहू ॥ १० ॥ शक्रध्वजसमुच्छ्रयौ पात्रं च पङ्कजं घण्टां विशुद्धां चैव या । भुवि । पाशं धनुर्महाचक्रं वि विधान्यायुधानि ॥ ११ ॥ च कुण्डलाभ्यां सुपूर्णा भ्यां कर्णाभ्यां च विभूषि । ता । चन्द्रविस्पर्धिना दे वि मुखेन त्वं ॥ १२ ॥ विराजसे मुकुटेन विचित्रेण केशबन्धे । न शोभिना । भुजङ्गभो गवासेन श्रोणिसूत्रेण ॥ १३ ॥ राजता विभ्राजसे चाऽऽ बद्धेन भोगेनेवेह । मन्दरः । ध्वजेन शिखि पिच्छानामुच्छ्रितेन ॥ १४ ॥ विराजसे कौमारं व्र तमास्थाय त्रिदिवं पा । वितं त्वया । तेन त्वं स्तू यसे देवि त्रिदशैः ॥ १५ ॥ पूज्यसेऽपि च त्रैलोक्य रक्षणार्थाय महिषा । सुरनाशिनि । प्रसन्ना मे सुरश्रेष्ठे दयां कुरु ॥ १६ ॥ शिवा भव जया त्वं वि जया चैव सङ्ग्रामे च । जयप्रदा । ममापि वि जयं देहि वरदा त्वं ॥ १७ ॥ च साम्प्रतम् विन्ध्ये चैव नगश्रेष्ठे तव स्थानं । च शाश्वतम् । कालि कालि महाकालि सीधुमांसपशु ॥ १८ ॥ प्रिये कृतानुयात्रा भू तैस्त्वं वरदा कामरू । पिणी । भारावतारे च ये त्वां संस्मरिष्यन्ति ॥ १९ ॥ मानवाः प्रणमन्ति च ये त्वां हि प्रभाते तु न । रा भुवि । न तेषां दुर्ल भं किञ्चित्पुत्रतो ॥ २० ॥ धनतोऽपि वा दुर्गात्ता रयसे दुर्गे तत्त्वं दु । र्गा स्मृता बुधैः । कान्तारे ष्ववसन्नानां मग्नानां च ॥ २१ ॥ महार्णवे दस्युभिर्वा निरुद्धानां त्वं गतिः प । रमा नृणाम् । जलप्रत रणे चैव कान्तारेष्वटवीषु ॥ २२ ॥ च ये स्मरन्ति महादे वीं न च सीदन्ति ते न । राः । त्वं कीर्तिः श्रीर्धृतिः सि द्धिर्विद्या ॥ २३ ॥ सन्ततिर्मतिः सन्ध्या रा त्रिः प्रभा निद्रा ज्योत्स्ना का । न्तिः क्षमा दया । नृणां च बन्धनं मोहं पुत्रनाशं ॥ २४ ॥ धनक्षयम् व्याधिं मृत्यु भयं चैव पूजिता ना । शयिष्यसि । सोऽहं राज्या त् परिभ्रष्टः शरणं त्वां ॥ २५ ॥ प्रपन्नवान् प्रणतश्च तथा मूर्ध्ना तव देवि । सुरेश्वरि । त्राहि मां प द्मपत्राक्षि सत्या सत्या ॥ २६ ॥ भवस्व नः शरणं भ व मे दुर्गे शरण्ये भ । क्तवत्सले । एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् ॥ २७ ॥ देव्युवाचश्रुणु राजन्महाबाहो मदीयं वचनं प्रभो । भविष्यत्यचिरादेव सङ्ग्रामे विजयस्तव ॥ २८ ॥ मम प्रसादान्निर्जित्य हत्वा कौरववाहिनीम् । राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ॥ २९ ॥ भ्रातृभिः सहितो राज न् प्रीतिं प्राप्स्यसि पुष्कलाम् । मत्प्रसादाच्च ते सौख्य मारोग्यं च भविष्यति ॥ ३० ॥ ये नराः कीर्तयिष्यन्ति लोके विगतकल्मषाः । तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुः सुतम् ॥ ३१ ॥ प्रवासे नगरे वापि सङ्ग्रामे शत्रुसङ्कटे । अटव्यां दुर्गकान्तारे सागरे गहने गिरौ ॥ ३२ ॥ ये स्मरिष्यन्ति मां राज न्यथाऽहं भवता स्मृता । न तेषां दुर्लभं किञ्चि दस्मिंल्लोके भविष्यति ॥ ३३ ॥ इदं स्तोत्रवरं भक्त्या श्रुणुयाद्वा पठेत वा । तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डव ॥ ३४ ॥ मत्प्रभावाच्च वः सर्वा न् विराटनगरे स्थितान् । न प्राज्ञास्यन्ति कुरवो नरा वा तन्निवासिनः ॥ ३५ ॥ इत्युक्ता वरदा देवी युधिष्ठिरमरिन्दमम् । रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत ॥ ३६ ॥ ॥ इति श्रीमन्महाभारते विराटपर्वणि धर्मराजप्रोक्तं दुर्गास्तोत्रम् ॥