📚 तारतम्यस्तोत्रम्
📚 तारतम्यस्तोत्रम्
✅ Proofread
Actions
Save Book
🎨 Reading Font Style Noto Serif
↔️ Text Alignment Center
अथ तारतम्यस्तोत्रम् विष्णुः सर्वोत्तमोऽथ प्रकृतिरथ विधिप्राणनाथावथोक्ते ब्रह्माणी भारती च द्विजफणिपमृडाश्च स्त्रियः षट् च विष्णोः । सौपर्णी वारुणी पर्वतपतितनया चेन्द्रकामावथास्मा न् प्राणोऽथो योऽनिरुद्धो रतिमनुगुरवो दक्षशच्यौ च पान्तु ॥ १ ॥ त्रायन्तां नः सदैते प्रवह उत यमो मानवी चन्द्रसूर्यौ चाप्पोऽथो नारदोऽथो भृगुरनलकुलेन्द्रः प्रसूतिश्च नित्यम् । विश्वामित्रो मरीचिप्रमुखविधिसुताः सप्त वैवस्वताख्यचैवं वै मित्रतारे वरनिर्ऋतिनामा प्रावही च प्रसन्नाः ॥ २ ॥ विष्वक्सेनोऽश्विनौ तौ गणपतिधनपावुक्तशेषाः शतस्थाः देवाश्चोक्तेतरे ये तदवरमनवच्यावनोचथ्यसञ्ज्ञौ । वैन्यो यः कार्तवीर्यः क्षितिपतिशशबिन्दुः प्रियादिव्रतोऽथो गङ्गापर्जन्यसज्ञे शशियमदयिते मा विराट् चाशु पान्तु ॥ ३ ॥ एभ्योऽन्ये चाग्निजाया च जलमयबुधश्चापि नामात्मिकोषा चैवं भूमौ ततात्मा शनिरपि कथितः पुष्करः कर्मपोऽपि । येऽथाथो चाप्युतानामिह कथितसुरा मध्यभागे समास्ते विष्ण्वाद्या नः पुनन्तु क्रमगदितमहातारतम्येन युक्ताः ॥ ४ ॥ वन्दे विष्णुं नमामि श्रियमथ च भुवं ब्रह्मवायू च वन्दे गायत्री भारतीं तामपि गरुडमनन्तं भजे रुद्रदेवम् । देवीं वन्दे सुपर्णीमहिपतिदयितां वारुणीमप्युमां ता- मिन्द्रादीन् काममुख्यानपि सकलसुरांस्तद्गुरून्मद्गुरूंश्च ॥ ५ ॥ सर्वोत्तमो विष्णुरथो रमा च ब्रह्मा च वायुश्च तदीयपत्न्यौ । अन्ये च देवाः सततं प्रसन्ना हरौ सुभक्तिं मयि सन्दिशन्तु ॥ ६ ॥ ॥ इति कल्याणीदेवीविरचितं तारतम्यस्तोत्रम् ॥