अथ जितन्ते स्तोत्रम् • प्रथमोऽध्यायः •
जितं ते पुण्डरीकाक्ष पूर्णषाड्गुण्यविग्रह ।
परानन्द परब्रह्म न् नमस्ते चतुरात्मने ॥ १ ॥
नमस्ते पीतवसन नमः कटकहारिणे ।
नमो नीलालकाबद्ध वेणीसुन्दरपुङ्गव ॥ २ ॥
स्फुरद्बलयकेयूर नूपुराङ्गदभूषणैः ।
शोभनैर्भूषिताकार कल्याणगुणराशये ॥ ३ ॥
करुणापूर्णहृदय शङ्खचक्रगदाधर ।
अमृतानन्दपूर्णाभ्यां लोचनाभ्यां विलोकय ॥ ४ ॥
कृशं कृतघ्नं दुष्कर्म कारिणं पापभाजनम् ।
अपराधसहस्राणां आकरं करुणाकर ॥ ५ ॥
कृपया मां केवलया गृहाण मथुराधिप ।
विषयार्णवमग्नं मा मुद्धर्तुं त्वमिहार्हसि ॥ ६ ॥
पिता माता सुहृद्बन्धु र्भ्राता पुत्रस्त्वमेव मे ।
विद्या धनं च कामश्च नान्यत् किञ्चित् त्वया विना ॥ ७ ॥
यत्र कुत्र कुले वासो येषु केषु भवोऽस्तु मे ।
तव दास्यैकभावे स्या त् सदा सर्वत्र मे रतिः ॥ ८ ॥
मनसा कर्मणा वाचा शिरसा वा कथञ्चन ।
त्वां विना नान्यमुद्दिश्य करिष्ये किञ्चिदप्यहम् ॥ ९ ॥
पाहि पाहि जगन्नाथ कृपया भक्तवत्सल ।
अनाथोऽहमधन्योऽह मकृतार्थो ह्यकिञ्चनः ॥ १० ॥
नृशंसः पापकृत् क्रूरो वञ्चको निष्ठुरः सदा ।
भवार्णवे निमग्नं मा मनन्यकरुणोदधे ॥ ११ ॥
करुणापूर्णदृष्टिभ्यां दीनं मामवलोकय ।
त्वदग्रे पतितं त्यक्तुं तावकं नार्हसि प्रभ ॥ १२ ॥
मया कृतानि पापानि विविधानि पुनः पुनः ।
त्वत्पादपङ्कजं प्राप्तुं नान्यत् त्वत्करुणां विना ॥ १३ ॥
साधनानि प्रसिद्धानि यागादीन्यब्जलोचन ।
त्वदाज्ञया प्रवृत्तानि त्वामुद्दिश्य कृतानि वै ॥ १४ ॥
भक्त्यैकलभ्यः पुरुषोत्तमो हि
जगत्प्रसूतिस्थितिनाशहेतुः ।
अकिञ्चनं नान्यगतिं शरण्य
गृहाण मां क्लेशिनमम्बुजाक्ष ॥ १५ ॥
धर्मार्थकाममोक्षेषु नेच्छा मम कदाचन ।
त्वत्पादपङ्कजस्याधो जीवितं मम दीयताम् ॥ १६ ॥
कामये तावकत्वेन परिचर्यासु वर्तनम् ।
नित्यं किङ्करभावेन परिगृह्णीष्व मां विभो ॥ १७ ॥
लोकं वैकुण्ठनामानं दिव्यं षाड्गुण्यसंयुतम् ।
अवैष्णवानामप्राप्यं गुणत्रयविवर्जितम् ॥ १८ ॥
नित्यं सिद्धैः समाकीर्णं त्वन्मयैः पाञ्चकालिकैः ।
सभाप्रासादसंयुक्तं वनैश्चोपवनैः शुभैः ॥ १९ ॥
वापीकूपतटाकैश्च वृक्षखण्डैश्च मण्डितम् ।
अप्राकृतं सुरैर्वन्द्य मयुतार्कसमप्रभम् ॥ २० ॥
प्रकृष्टसत्त्वराशिं त्वां कदा द्रक्ष्यामि चक्षुषा ।
क्रीडन्तं रमया सार्धं लीलाभूमिषु केशवम् ॥ २१ ॥
मेघश्यामं विशालाक्षं कदा द्रक्ष्यामि चक्षुषा ।
उन्नसं चारुदशनं बिम्बोष्ठं शोभनाननम् ॥ २२ ॥
विशालवक्षसं श्रीशं कम्बुग्रीवं जगद्गुरुम् ।
आजानुबाहुपरिघ मुन्नतांसं मधुद्वषम् ॥ २३ ॥
तनूदरं निम्ननाभि मापीनजघनं हरिम् ।
करभोरुं श्रियः कान्तं कदा द्रक्ष्यामि चक्षुषा ॥ २४ ॥
शङ्खचक्रगदापद्मै रङ्कितं पादपङ्कजम् ।
शरच्चन्द्रशताक्रान्त नखराजिविराजितम् ॥ २५ ॥
सुरासुरैर्वन्द्यमान मृषिभिर्वन्दितं सदा ।
मूर्धानं मामकं देव तावकं मण्डयिष्यति ॥ २६ ॥
कदा गम्भीरया वाचा श्रिया युक्तो जगत्पतिः ।
चामरव्यग्रहस्तं मा मेवं कुर्विति वक्ष्यति ॥ २७ ॥
कदाऽहं राजराजेन गणनाथेन चोदितः ।
चरेयं भगवत्पाद परिचर्यासु वर्तनम् ॥ २८ ॥
शान्ताय सुविशुद्धाय तेजसे प
रमात्मने । नमः सर्वगुणातीत ।
षाड्गुण्यायादिवेधसे सत्यज्ञाना
नन्तगुणब्रह्मणे चतुरात्मने ॥ २९ ॥
नमो भगवते तुभ्यं वासुदेवामितद्युते
चतुःपञ्चनवव्यूह ।
दशद्वादशमूर्तये ॥ ३० ॥
नमोऽनन्ताय विश्वाय विश्वातीताय चक्रिणे
नमस्ते पञ्चकालज्ञ पञ्चकालपरायण ।
पञ्चकालैकमनसां त्वमेव गतिरव्ययः ॥ ३१ ॥
स्वमहिम्न स्थितं देवं निरनिष्टं निरञ्जनम् ।
अप्रमेयमजं विष्णुं शरणं त्वां गतोऽस्म्यहम् ॥ ३२ ॥
वागतीतं परं शान्तं कञ्जनाभं सुरेश्वरम् ।
तुरीयाद्यतिरक्तं त्वां कौस्तुभोद्भासिवक्षसम् ॥ ३३ ॥
विश्वरूपं विशालाक्षं कदा द्रक्ष्यामि चक्षुषा ।
मोक्षं सालोक्यसारूप्यं प्रार्थये न कदाचन ॥ ३४ ॥
इच्छाम्यहं महाभाग कारुण्यं तव सुव्रत ।
सकलावरणातीत किङ्करोऽस्मि तवानघ ॥ ३५ ॥
पुनः पुनः किङ्करोऽस्मि तवाहं पुरुषोत्तम ।
आसनाद्यनुयागान्त मर्चनं यन्मया कृतम् ॥ ३६ ॥
भोगहीनं क्रियाहीनं मन्त्रहीनमभक्तिकम् ।
तत्सर्वं क्षम्यतां देव दीनं मामात्मसात् कुरु ॥ ३७ ॥
इति स्तोत्रेण देवेशं स्तुत्वा मधुनिघातिनम् । यागावसानसमये देवदेवस्य चक्रिणः । नित्यं किङ्करभावेन स्वात्मानं विनिवेदयेत्
।
ब्रह्मोवाच- ॥ ३८ ॥
॥ इति जितन्ते स्तोत्रे प्रथमोऽध्यायः ॥
>द्वितीयोऽध्यायः जितं ते पुण्डरीकाक्ष नमस्ते ।
विश्वभावन । नमस्तेऽ स्तु हृषीकेश ॥ ३९ ॥
महापुरुषपूर्वज विज्ञापनमिदं देव ।
शृणुष्व पुरुषोत्तम । नरनारायणाभ्यां च ॥ ४० ॥
श्वेतद्वीपनिवासिभिः नारदाद्यैर्मुनिगणैः ।
सनकाद्यैश्च योगिभिः । ब्रह्मेशाद्यैः सुरगणैः ॥ ४१ ॥
पञ्चकालपरायणैः पूज्यसे पुण्डरीकाक्ष ।
दिव्यैर्मन्त्रैर्महात्मभिः । पाषण्डधर्मसङ्कीर्णे ॥ ४२ ॥
भगवद्भक्तिवर्जिते कलौ जातोऽस्मि देवेश ।
सर्वधर्मबहिष्कृते । कथं त्वामसमा दा चारः ॥ ४३ ॥
पापप्रसवभूरुहः अर्चयामि दयासिन्धो ।
पाहि मां शरणागतम् । तापत्रयदवाग्नौ मां दह्यमानं ॥ ४४ ॥
सदा विभो पाहि मां पु ण्डरीकाक्ष केवलं कृ ।
पया तव । जन्ममृत्यु जराव्याधिदुःखसन्तप्तदेहिनम् ॥ ४५ ॥
पालयाशु दृशा देव तव कारुण्यगर्भया ।
इन्द्रियाणि मया जेतु मशक्यं ॥ ४६ ॥
पुरुषोत्तम शरीरं मम देवेश व्याधिभिः ।
परिपीडितम् । मनो मे पुण्डरीकाक्ष ॥ ४७ ॥
विषयानेव धावति वाणी मम हृषीकेश ।
मिथ्यापारुष्यदूषिता । एवं साधनहीनोऽहं किं ॥ ४८ ॥
करिष्यामि केशव र क्ष मां कृपया कृष्ण भ ।
वाब्धौ पतितं सदा अ पराधसहस्राणां ॥ ४९ ॥
सहस्रमयुतं तथा । अर्बुदं चाप्यसङ्ख्येयं ।
करुणाब्धे क्षमस्व मे यं चापराधं कृतवान् अज्ञानात् ॥ ५० ॥
पुरुषोत्तम । अज्ञस्य मम देवेश तत् सर्वं ।
क्षन्तुमर्हसि अज्ञत्वा दल्पशक्तित्वादालस्याद्दुष्टभावनात् ॥ ५१ ॥
। कृतापराधं कृपणं ।
क्षन्तुमर्हसि मां विभो अपराधसहस्राणि ॥ ५२ ॥
क्रियन्तेऽहर्निशं मया । तानि सर्वाणि मे देव ।
क्षमस्व मधुसूदन यज्जन्मनः प्रभृति मोहवशं ॥ ५३ ॥
गतेन नानापराध शतमाचरितं मया ।
ते । अन्तर्बहिश्च सक लं तव पश्यतो हि ॥ ५४ ॥
क्षन्तुं त्वमर्हसि हरे करुणावशेन कर्म ।
णा मनसा वाचा या चे ष्टा मम नित्यशः ॥ ५५ ॥
केशवाराधने सा स्या ।
ज्जन्मजन्मान्तरेष्वपि ब्रह्मोवाच- ॥ ५६ ॥
॥ इति जितन्ते स्तोत्रे द्वितीयोऽध्यायः ॥
• तृतीयोऽध्यायः जितं ते पुण्डरीकाक्ष नमस्ते ।
विश्वभावन । नमस्तेऽ स्तु हृषीकेश ॥ ५७ ॥
महापुरुषपूर्वज नमस्ते वासुदेवाय ।
शान्तानन्दचिदात्मने । अध्यक्षाय स्वतन्त्राय निरपेक्षाय ॥ ५८ ॥
शाश्वते अच्युतायावि काराय तेजसां निध ।
ये नमः । क्लेशकर्माद्य संस्पृष्टपूर्णषाङ्गुण्यमूर्तये ॥ ५९ ॥
त्रिभिर्ज्ञानबलैश्वर्य वीर्यशक्त्योजसां युगैः ।
त्रिगुणाय नमस्तेऽस्तु नमस्ते ॥ ६० ॥
चतुरात्मने प्रधान पुरुषेशाय नमस्ते ।
पुरुषोत्तम । चतुःप ञ्चनवव्यूहदशद्वादशमूर्तये ॥ ६१ ॥
अनेकमूर्तये तुभ्य ।
ममूर्तायैकमूर्तये । नारायण नमस्तेऽस्तु ॥ ६२ ॥
पुण्डरीकायतेक्षण सुभ्रूल
लाट सुनसे सुस्मिताधरवि ।
द्रुम । पीनवृत्तायतभुज श्री
वत्सकृतभूषण ॥ ६३ ॥
तनुमध्यमहावक्षः पद्मनाभ नमोऽस्तु ते ।
विलासविक्रमाक्रान्त त्रैलोक्यचरणाम्बुज ॥ ६४ ॥
नमस्ते पीतवसन स्फुरन्मकरकुण्डल ।
स्फुरत्किरीटकेयूर नूपुराङ्गदभूषण ॥ ६५ ॥
पञ्चायुध नमस्तेऽस्तु नमस्ते पाञ्चकालिक ।
पञ्चकालरतानां त्वं योगक्षेमं ॥ ६६ ॥
वह प्रभो नित्यज्ञान बलैश्वर्यभोगोपक ।
रणाच्युत । नमस्ते ब्र ह्मरुद्रादिलोकयात्राप्रवर्तक ॥ ६७ ॥
जन्मप्रभृति दासोऽस्मि शिष्योऽस्मि तनयोऽस्मि ते ।
त्वं च स्वामी गुरुर्माता पिता च ॥ ६८ ॥
मम बान्धवः अयि त्वां भगवन् ब्रह्मशिवश ।
क्रमहर्षयः । द्रष्टुं य ष्टुमभिष्टोतुमद्यापीश ॥ ६९ ॥
न हीशते तापत्रय महाग्राहभीषणे भ ।
वसागरे । मज्जतां ना थ नौरेषा प्रणतिस्तु ॥ ७० ॥
त्वदर्पिता अनाथाय जगन्नाथ शरण्य श ।
रणार्थिने । प्रसीद सी दते मह्यं मुह्यते ॥ ७१ ॥
भक्तवत्सल मन्त्रही नं क्रियाहिनं भक्तिही ।
नं यदर्चनम् । तत् क्षन्त व्यं प्रपन्नानामपराधसहो ॥ ७२ ॥
ह्यसि सर्वेषु देशका लेषु सर्वावस्थासु चा ।
च्युत । किङ्करोऽस्मि हृषी केश भूयो ॥ ७३ ॥
भूयोऽस्मि किङ्करः एक त्रिचतुरत्यन्तचेष्टा ।
येष्टकृते सदा । व्यक्त षाड्गुण्यतत्त्वाय ॥ ७४ ॥
चतुरात्मात्मने नमः कर्मणा
मनसा वाचा या चेष्टा मम नि ।
त्यशः । केशवाराधने सा स्याज्ज
न्मजन्मान्तरेष्वपि ब्रह्मोवाच- ॥ ७५ ॥
॥ इति जितन्ते स्तोत्रे तृतीयोऽध्यायः ॥
> चतुर्थोऽध्यायः • जितं ते पुण्डरीकाक्ष पूर्णषा ।
ड्गुण्यविग्रह । नमस्तेऽ स्तु हृषीकेश ॥ ७६ ॥
महापुरुषपूर्वज देवानां दानवानां च ।
सामान्यमधिदैवतम् । सर्वदा चरणद्वन्द्वं व्रजामि ॥ ७७ ॥
शरणं तव एकस्त्व मस्य लोकस्य स्रष्टा सं ।
हारकस्तथा । अध्यक्ष श्चानुमन्ता च ॥ ७८ ॥
गुणमायासमावृतः संसारसागरं घोर ।
मनन्तक्लेशभाजनम् । त्वामेव शरणं प्राप्य निस्तरन्ति ॥ ७९ ॥
मनीषिणः न ते रूपं न चाकारो नायुधानि ।
न चास्पदम् । तथाऽपि पु रुषाकारो भक्तानां ॥ ८० ॥
त्वं प्रकाशसे नैव कि ञ्चित्परोक्षं ते प्रत्यक्षोऽ ।
सि न कस्यचित् । नैव कि ञ्चिदसिद्धं ते न च ॥ ८१ ॥
सिद्धोऽसि कर्हिचित् कार्या णां कारणं पूर्वं वच ।
सां वाच्यमुत्तमम् । योगा नां परमां सिद्धिं परमं ॥ ८२ ॥
ते पदं विदुः अहं भी तोऽस्मि देवेश संसारेऽ ।
स्मिन् भयावहे । पाहि मां पुण्डरीकाक्ष न जाने ॥ ८३ ॥