अथ श्रीजयतीर्थस्तुतिः
घाटी श्रीजयतीर्थवर्यवचसां चेटीभवत्स्वर्धुनी-
पाटीरानिलपुल्लमल्लिसुमनोवाटीलसद्वासना ।
पेटी युक्तिमणिश्रियां सुमतिभिः कोटीरकैः श्लाघिता
सा टीका निचयात्मिका मम चिरादाटीकतां मानसे ॥ १ ॥
टीकाकृज्जयवर्य संसदि भवत्येकान्ततो राजति
प्राकाम्यं दधते पलायनविधौ स्तोकान्यशङ्का द्विषः ।
लोकान्धीकरणक्षमस्य तमसः सा कालसीमा यदा
पाकारातिदिशि प्ररोहति न चेद्राकानिशाकामुकः ॥ २ ॥
छायासंश्रयणेन यच्चरणयोरायामिसांसारिका-
पायानल्पतमातपव्यतिकरव्यायामविक्षोभिताः ।
आयान्ति प्रकटां मुदं बुधजना हेयानि धिक्कृत्य नः
पायाच्छ्रीजयराट् दृशा सरसनिर्मायानुकम्पार्द्रया ॥ ३ ॥
श्रीवाय्वंशसुवंशमौक्तिकमणेः सेवाविनम्रक्षमा-
देवाज्ञानतमोविमोचनकलाजैवातृकश्रीनिधेः ।
शैवाद्वैतमताटवीकवलनादावाग्निलीलाजुषः
को वादी पुरतो जयीश्वर भवेत् ते वादिकोलाहले ॥ ४ ॥
नीहारच्छविबिम्बनिर्गतकरव्यूहाप्लुतेन्दूपला-
नाहार्यस्रुतनूतनामृतपरीवाहालिवाणीमुचः ।
ऊहागोचरगर्वपण्डितपयोवाहानिलश्रीजुषो
माहात्म्यं जयतीर्थवर्य भवतो व्याहारमत्येति नः ॥ ५ ॥
वन्दारुक्षितिपालमौलिविलसन्मन्दारपुष्पावली-
मन्दान्यप्रसरन्मरन्दकणिकावृन्दार्द्रपादाम्बुजः ।
कुन्दाभामलकीर्तिरार्तजनतावृन्दारकानोकहः
स्वं दासं जयतीर्थराट् स्वकरुणासन्धानितं मां क्रियात् ॥ ६ ॥
श्री दाराङ्घ्रिनतः प्रतीपसुमनोवादाहवाटोपनि-
र्भेदातन्द्रमतिः समस्तविबुधामोदावलीदायकः ।
गोदावर्युदयत्तरङ्गनिकरहीदायिगम्भीरगीः
पादाब्जप्रणते जयी कलयतु स्वे दासवर्गेऽपि माम् ॥ ७ ॥
विद्यावारिजषण्डचण्डकिरणो विद्यामदक्षोदयद्वाद्यालीकदलीभिदामरकरीहृद्यात्मकीर्तिक्रमः ।
पद्या बोधततेर्विनम्रसुरराडुद्यानभूमीरुहो
दद्याच्छ्रीजयतीर्थराट् धियमुतावद्यानि भिन्द्यान्मम ॥ ८ ॥
आभासत्वमियाय तार्किकमतं प्राभाकरप्रक्रिया
शोभां नैव बभार दूरनिहिता वैभाषिकाद्युक्तयः ।
ह्रीभारेण नताश्च सङ्करमुखाः क्षोभाकरो भास्करः
श्रीभाष्यं जययोगिनि प्रवदति स्वाभाविकोद्यन्मतौ ॥ ९ ॥
बन्धानः सरसार्थशब्दविलसद्बन्धाकराणां गिरा-
मिन्धानोऽर्कविभापरीभवझरीसन्धायिना तेजसा ।
रुन्धानो यशसा दिशः कविशिरः सन्धार्यमाणेन मे
सन्धानं स जयी प्रसिद्ध हरिसम्बन्धागमस्य क्रियात् ॥ १० ॥
सङ्ख्यावद्गुणगीयमानचरितः साङ्ख्याक्षपादादिनिः-
सङ्ख्याऽसत्समयिप्रभेदपटिमाप्रख्यातविख्यातिगः ।
मुख्यावासगृहं क्षमादमदयामुख्यामलश्रीधुरां
व्याख्याने कलयेद्रतिं जयवराभिख्याधरो मद्गुरुः ॥ ११ ॥
आसीनो मरुदंशदाससुमनोनासीरदेशे क्षणा-
द्दासीभूतविपक्षवादिविसरः शासी समस्तैनसाम् ।
वासी हृत्सु सतां कलानिवहविन्यासी ममानारतं
श्रीसीतारमणार्चकः स जयराडासीदतां मानसे ॥ १२ ॥
पक्षीशासनपादपूजनरतः कक्षीकृतोद्यद्दयो
लक्ष्यीकृत्य सभातले रटदसत्पक्षीश्वरानक्षिपत् ।
अक्षीणप्रतिभाभरो विधिसरोजाक्षीविहाराकरो
लक्ष्मीं नः कलयेज्जयी सुचिरमध्यक्षीकृतक्षोभणाम् ॥ १३ ॥
येनाऽगाहि समस्तशास्त्रपृतनारत्नाकरो लीलया
येनाऽखण्डि कुवादिसर्वसुभटस्तोमो वचः सायकैः ।
येनाऽस्थापि च मध्वशास्त्रविजयस्तम्भो धरामण्डले
तं सेवे जयतीर्थवीरमनिशं मध्वाख्यराजादृतम् ॥ १४ ॥
यदीयवाक्तरङ्गाणां विप्लुषो विदुषां गि
रः । जयति श्रीधरावासः जयतीर्थसुधा ।
करः सत्यप्रिययतिप्रोक्तं श्रीजयार्यस्त
वं शुभम् । पठन् सभासु विजयी लोकेषूत्तमतां व्रजेत् ॥ १५ ॥
॥ इति श्रीसत्यप्रियतीर्थविरचिता श्रीजयतीर्थस्तुतिः ॥