अथ गोसावित्रीस्तोत्रम्
नारायणं नमस्कृत्य देवीं त्रिभुवनेश्वरीम् ।
गोसावित्रीं प्रवक्ष्यामि व्यासेनोक्तां सनातनीम् ॥ १ ॥
यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ।
गवां निश्वसितं वेदाः सषडङ्गपदक्रमाः ॥ २ ॥
शिक्षा व्याकरणं छन्दो निरुक्तं ज्यौतिषं तथा ।
एतासामग्रशृङ्गेषु इन्द्रविष्णू स्वयं स्थितौ ॥ ३ ॥
शिरो ब्रह्मा गुरुः स्कन्धे ललाटे गोवृषध्वजः ।
कर्णयोरश्विनौ देवौ चक्षुषोः शशिभास्करौ ॥ ४ ॥
दन्तेषु मरुतो देवा जिह्वायां च सरस्वती ।
कण्ठे च वरुणो देवो हृदये हव्यवाहनः ॥ ५ ॥
उदरे पृथिवी देवी सशैलवनकानना ।
ककुदि द्यौः सनक्षत्रा पृष्ठे वैवस्वतो यमः ॥ ६ ॥
ऊर्वोस्तु वसवो देवा वायुर्जङ्घे समाश्रितः ।
आदित्यस्त्वाश्रितो वाले साध्याः सर्वाङ्गसन्धिषु ॥ ७ ॥
अपाने सर्वतीर्थानि गोमूत्रे जाह्नवी स्वयम् ।
इष्टात्तुष्टा महालक्ष्मी र्गोमये संस्थिता सदा ॥ ८ ॥
नासिकायां च श्रीदेवी ज्येष्ठा वसति मानवी ।
चत्वारः सागराः पूर्णा गवां ह्येव पयोधरे ॥ ९ ॥
खुरमध्येषु गन्धर्वाः खुराग्रे पन्नगाः श्रिताः ।
खुराणां पश्चिमे भागे ह्यप्सराणां गणाः स्मृताः ॥ १० ॥
श्रोणीतटेषु पितरो रोमलाङ्गूलमाश्रिताः ।
ऋषयो रोमकूपेषु चर्मण्येव प्रजापतिः ॥ ११ ॥
सर्वा विष्णुमया गावः तासां गोप्ता हि केशवः ।
हुङ्कारे चतुरो वेदाः हुंशब्दे च प्रजापतिः ॥ १२ ॥
गवां दृष्ट्वा नमस्कृत्य कृत्वा चैव प्रदक्षिणम् ।
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥ १३ ॥
कामदोग्ध्री स्वयं काम दोग्धा सन्निहिता मता ।
गोग्रासस्य विशेषोऽस्ति हस्तसम्पूर्णमात्रतः ॥ १४ ॥
शतब्राह्मणभुक्तेन सममाहुर्युधिष्ठिर ।
य इदं पठते नित्यं शृणुयाद्वा समाहितः ॥ १५ ॥
ब्राह्मणो लभते विद्यां क्षत्रियो राज्यमामुयात् ।
वैश्यश्च पशुमान् स स्या त् शूद्रश्च सुखमाप्नुयात् ॥ १६ ॥
गर्भिणी जनयेत् पुत्रं कन्या भर्तारमाप्नुयात् ।
सायं प्रातस्तु पठतां शान्तिः स्वस्त्ययनं महत् ॥ १७ ॥
अहोरात्रकृतैः पापै स्तत्क्षणात् परिमुच्यते ।
फलं तु गोसहस्रस्य इत्युक्तं ब्रह्मणा पुरा ॥ १८ ॥
॥ इति श्रीमन्महाभारते भीष्मयुधिष्ठिरसंवादे गोसावित्रीस्तोत्रम् ॥