📚 गोपीगीतम्
📚 गोपीगीतम्
✅ Proofread
Actions
Save Book
🎨 Reading Font Style Noto Serif
↔️ Text Alignment Center
अथ गोपीगीतम् जयति तेऽधिकं जन्मना व्रजः श्रयत इन्दिरा साधु तत्र हि । दयित दृश्यतां त्वां दिदृक्षतां त्वयि धृतासवस्त्वा विचिन्वते ॥ १ ॥ व्रजजनार्तिहन् वीरयोषितां निजजनस्मयध्वंसनस्मित । भजसखे भवे किङ्करीः स्म नो जलरुहाननं चारु दर्शयन् ॥ २ ॥ शरदुदाशये साधु जातस त्सरसिजोदरश्रीमुषा दृशा । सुरतनाथ ते शुल्कदासिका वरद निघ्नतो नेह किं वधः ॥ ३ ॥ विषजलाशयाद् व्यालराक्षसा द् वर्षमारुताद्वैद्युतानलात् । वृ । षमयाद्भयाद् विश्वतोमुखाद् वृ षभ ते वयं रक्षिता मुहुः स ॥ ४ ॥ खलु गोऽपिकानन्दनो भवान खिलदेहिनामन्तरात्मदृक् । वि । खनसार्चितो विश्वगुप्तये स ख उदेयिवान् सात्वतां कुले ॥ ५ ॥ विरचिताभयं वृष्णिवर्य ते शरणमीयुषां संसृतेर्भयात् । करसरोरुहं कान्त कामदं शिरसि धेहि नः श्रीकरग्रहम् ॥ ६ ॥ प्रणतदेहिनां पापकर्शनं तृणचरानुगं श्रीनिकेतनम् । फणिफणार्पितं ते पदाम्बुजं कृणु कुचेषु नः कृन्धि हृच्छयम् ॥ ७ ॥ मधुरया गिरा वल्गुवाक्यया बुधमनोज्ञया पुष्करेक्षण । विधिकरीरिमा वीर मुह्यती रधरसीधुनाऽऽप्याययस्व नः ॥ ८ ॥ तव कथामृतं तप्तजीवनं कविभिरीडितं कल्मषापहम् । श्रवणमङ्गलं श्रीमदाततं भुवि गृणन्ति ते भूरिदा जनाः ॥ ९ ॥ प्रहसितं प्रिय प्रेमवीक्षणं विहरणं च ते ध्यानमङ्गलम् । रहसि संविदो या हृदिस्पृशः कुहक नो मनः क्षोभयन्ति हि ॥ १० ॥ चलसि यद् व्रजाच्चारयन् पशू न् नलिनसुन्दरं नाथ ते पदम् । शिलतृणाङ्कुरैः सीदतीति नः कलिलतां मनः कान्त गच्छति ॥ ११ ॥ दिनपरिक्षये नीलकुन्तलै र्वनरुहाननं बिभ्रदावृतम् । वनरजस्वलं दर्शयन् मुहुः मनसि नः स्मरं वीर यच्छसि ॥ १२ ॥ प्रणतकामदं पद्मजार्चितं धरणिमण्डनं ध्येयमापदि । चरणपङ्कजं शन्तमं च ते रमण नस्तनेष्वर्पयाधिहन् ॥ १३ ॥ सुरतवर्धनं शोकनाशनं स्वरितवेणुना सुष्ठु चुम्बितम् । इतररागविस्मारणं नृणां वितर वीर नः तेऽधरामृतम् ॥ १४ ॥ अटति यद्भवानह्नि काननं त्रुटि युगायते त्वामपश्यताम् । कुटिलकुन्तलं श्रीमुखं च ते जडवदीक्षतां पक्ष्मनुदृशाम् ॥ १५ ॥ पतिसुतान्वयभ्रातृबान्धवा नतिविलङ्घ्य ते ह्यच्युतागताः । गतिविदस्तवोद्गीतमोहिताः कितव योषितः कस्त्यजेन्निशि ॥ १६ ॥ रहसि संविदं हृच्छयोदयं प्रहसिताननं प्रेमवीक्षणम् । बृहदुरः श्रियो वीर वीक्ष्य ते मुहुरतिस्पृहा मुह्यते मनः ॥ १७ ॥ व्रजवनौकसां व्यक्तिरङ्ग ते वृजिनहन्त्र्यलं विश्वमङ्गलम् । भज मनाक् च नस्त्वत्स्पृहात्मनां स्वजनहृद्रुजां यन्निषूदनम् ॥ १८ ॥ श्रीशुक उवाचइति गोप्यः प्रगायन्त्यः प्रलपन्त्यश्च चित्रधा । रुरुदुः सुस्वरं राजन् कृष्णदर्शनलालसाः तासामाविरभूच्छौरिः स्मयमानमुखाम्बुजः । पीताम्बरधरः स्रग्वी साक्षान्मन्मथमन्मथः ॥ १९ ॥ ॥ इति श्रीमद्भागवते दशमस्कन्धे गोपीगीतम् ॥