📚 कृष्णाष्टोत्तरशतनामस्तोत्रम्
📚 कृष्णाष्टोत्तरशतनामस्तोत्रम्
✅ Proofread
Actions
Save Book
🎨 Reading Font Style Noto Serif
↔️ Text Alignment Center
अथ श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् ॐ अस्य श्रीकृष्णाष्टोत्तरशतनामस्तोत्रस्य श्रीशेष ऋषिः, अनुष्टुप्छन्दः, श्रीकृष्णो देवता, श्रीकृष्णप्रीत्यर्थे श्रीकृष्णाष्टोत्तरशतनामजपे विनियोगः । श्रीशेष उवाचॐ श्रीकृष्णः कमलानाथो वासुदेवः सनातनः । वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥ १ ॥ श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः । चतुर्भुजात्तचक्रासि गदाशङ्खाद्युदायुधः ॥ २ ॥ देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः । यमुनावेगसंहारी बलभद्रप्रियानुजः ॥ ३ ॥ पूतनाजीवितहरः शकटासुरभञ्जनः । नन्दव्रजजनानन्दः सच्चिदानन्दविग्रहः ॥ ४ ॥ नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः । नवनीतनवाहारो मुचुकुन्दप्रसादकः ॥ ५ ॥ षोडशस्त्रीसहस्रेश स्त्रिभङ्गी मधुराकृतिः । शुकवागमृताब्धीन्दु र्गोविन्दो योगिनां पतिः ॥ ६ ॥ वत्सपादहरोऽनन्तो धेनुकासुरभञ्जनः । तृणीकृततृणावर्तो यमलार्जुनभञ्जनः ॥ ७ ॥ उत्तालतालभेत्ता च तमालश्यामलाकृतिः । गोपगोपीश्वरो योगी कोटिसूर्यसमप्रभः ॥ ८ ॥ इळापतिः परञ्ज्योति र्यादवेन्द्रो यदूद्वहः । वनमाली पीतवासाः पारिजातापहारकः ॥ ९ ॥ गोवर्धनाचलोद्धर्ता गोपालः सर्वपालकः । अजो निरञ्जनः काम जनकः कञ्जलोचनः ॥ १० ॥ मधुहा मथुरानाथो द्वारकानायको बली । वृन्दावनान्तःसञ्चारी तुलसीदामभूषणः ॥ ११ ॥ स्यमन्तकमणेर्हर्ता नरनारायणात्मकः । कुब्जागन्धानुलिप्ताङ्गो मायी परमपूरुषः ॥ १२ ॥ मुष्टिकासुरचाणूर मल्लयुद्धविशारदः । संसारवैरी कंसारि र्मुरारिर्नरकान्तकः ॥ १३ ॥ अनादिर्ब्रह्मचारी च कृष्णाव्यसनकर्षकः । शिशुपालशिरच्छेत्ता दुर्योधनकुलान्तकः ॥ १४ ॥ विदुराक्रूरवरदो विश्वरूपप्रदर्शकः । सत्यवाक् सत्यसङ्कल्पः सत्यभामारतो जयी ॥ १५ ॥ सुभद्रापूर्वजो विष्णु र्भीष्ममुक्तिप्रदायकः । जगद्गुरुर्जगन्नाथो वेणुनादविशारदः ॥ १६ ॥ वृषभासुरविध्वंसी बाणासुरकरान्तकः । युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः ॥ १७ ॥ पार्थसारथिरव्यक्तो गीतामृतमहोदधिः । कालीयफणमाणिक्य रञ्जित श्रीपदाम्बुजः ॥ १८ ॥ दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशनः । नारायणः परं ब्रह्म पन्नगाशनवाहनः ॥ १९ ॥ जलक्रीडासमासक्त गोपीवस्त्रापहारकः । पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः ॥ २० ॥ सर्वतीर्थात्मकः सर्व ग्रहरूपी परात्परः । एवं कृष्णस्य देवस्य नाम्नामष्टोत्तरं शतम् ॥ २१ ॥ कृष्णेन कृष्णभक्तानां गीतं गीतामृतं पुरा । स्तोत्रं कृष्णप्रियतमं श्रुतं तस्मान्मया परम् ॥ २२ ॥ कृष्णनामामृतं नाम परमानन्दकारणम् । ईतिबाधादिदुःखघ्नं परमायुष्यवर्धनम् ॥ २३ ॥ दानं व्रतं तपस्तीर्थं यत्कृतं त्विह जन्मनि । जपतां शृण्वतामेत त् कोटिकोटिगुणं भवेत् ॥ २४ ॥ पुत्रप्रदमपुत्राणा मगतीनां गतिप्रदम् । धनावहं दरिद्राणां जयेच्छूनां जयावहम् ॥ २५ ॥ शिशूनां गोकुलानां च पुष्टिदं पूर्णपुण्यदम् । बालरोगग्रहादीनां शमनं शान्तिमुक्तिदम् ॥ २६ ॥ समस्तकामदं सद्यः कोटिजन्माघनाशनम् । अन्ते कृष्णस्मरणदं भवतापभयापहम् ॥ २७ ॥ कृष्णाय यादवेन्द्राय । ज्ञानमुद्राय योगिने ॥ २८ ॥ नाथाय रुक्मिणीशाय नमो वेदान्तवेदिने इमं मन्त्रं जपन् देवि व्रजंस्तिष्ठन् दिवानिशि । सर्वग्रहानुग्रहभा क् सर्वप्रियतमो नरः ॥ २९ ॥ पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान् । निर्विश्य भोगानन्तेऽपि कृष्णसायुज्यमाप्नुयात् ॥ ३० ॥ ॥ इति श्रीनारदपञ्चरात्रे श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् ॥