📚 आमन्त्रणोत्सवस्तोत्रम्
📚 आमन्त्रणोत्सवस्तोत्रम्
✅ Proofread
Actions
Save Book
🎨 Reading Font Style Noto Serif
↔️ Text Alignment Center
अथ आमन्त्रणोत्सवस्तोत्रम् आमन्त्रणं ते निगमोक्तमन्त्रैः तन्त्रप्रवेशाय मनोहराय । श्रीरामचन्द्राय सुखप्रदाय करोम्यहं त्वं कृपया गृहाण ॥ १ ॥ सत्याधिराजार्चितपादपद्म श्रीमध्वसम्पूजित सुन्दराङ्ग । श्रीभार्गवीसन्नुतमन्दहास श्रीव्यासदेवाय नमो नमस्ते ॥ २ ॥ अनन्तरूपैरजितादिभिश्च परादिभिः श्रीबृहतीसहस्रैः । विश्वादिभिश्चैव सहस्ररूपैः नारायणाद्यष्टशतैरजाद्यैः ॥ ३ ॥ एकाधिपञ्चाशदितैश्च रूपैः श्रीकेशवाद्यैश्च चतुर्विंशैः । मत्स्यादिभिः स्वच्छदशस्वरूपैः विश्वादिभिश्चाष्टभिरग्ररूपैः ॥ ४ ॥ तथाऽनिरुद्धादिचतुस्स्वरूपै र्गोब्राह्मणश्रीतुलसीनिवासैः । मन्त्रेशरूपैः परमाणुपूर्व संवत्सरान्तामलकालरूपैः ॥ ५ ॥ ज्ञानादिदैः स्थावरजङ्गमस्थैः अव्याकृताकाशविहाररूपैः । नारायणाख्येन तथाऽनिरुद्ध रूपेण सक्ष्मोदगतेन तुष्ट्यै ॥ ६ ॥ प्रद्युम्नसङ्कर्षणनामकाभ्यां भोक्तृस्थिताभ्यां भुजिशक्तिदाभ्याम् । श्रीवासुदेवेन नभःस्थितेन ह्यभीष्टदेनाखिलसद्गुणेन ॥ ७ ॥ अश्वादिसद्यानगतेन नित्य मारूढरूपेण सुसौख्यदेन । विश्वेन जाग्रद्विनियामकेन स्वमस्थपालेन च तैजसेन ॥ ८ ॥ प्राज्ञेन सौषुप्तिकपालकेन तुर्येण मूर्ध्नि स्थितियुक्परेण । आत्मान्तरात्मेत्यभिधेन हृत्स्थ रूपद्वयेनाखिलसारभोक्रा ॥ ९ ॥ हृत्पद्ममूलाग्रगसर्वगैश्च रूपत्रयेणाखिलशक्तिभाजा । कृद्धोल्करूपैर्हृदयादिसंस्थैः प्राणादिगैरन्नमयादिगैश्च ॥ १० ॥ इलावृताद्यामलखण्डसंस्थैः लक्षादिसद्वीपसमुद्रधिष्ण्यैः । मेरुस्थकिंस्तुघ्नगकालचक्र ग्रहग्रहानुग्रहिभिश्च लोकैः ॥ ११ ॥ नारायणीपूर्ववधूरुरूपै स्त्रिधामभिर्भासुरधामभिश्च । श्रीमूलरामप्रतिमादिसंस्थ श्रीरामचन्द्राखिलसद्गुणाब्धे ॥ १२ ॥ सीतापते श्रीपरमावतार मायादिभिर्ब्रह्ममुखैश्च देवैः । दिक्पालकैस्साकमनन्तसौख्य सम्पूर्णसद्भक्तदयाम्बुराशे ॥ १३ ॥ सत्याधिराजार्यहृदब्जवास श्रीमध्वहृत्पङ्क जकोशवास । श्रीसत्प्रमोदार्यहृदब्जवास श्री । मध्वहृत्पङ्कजकोशवास । मद्विम्बरूपेण भ वैक्यशाली चामन्त्रितस्त्वद्य नमो नमस्ते ॥ १४ ॥ वराक्षतान् काञ्चनमुद्रिकाश्च मन्त्रेण हेम्नश्चषके निधाय । सीतापते ते पुरतश्श्रुतेस्तु प्रदध्युरेवं भगवत्स्वरूपम् ॥ १५ ॥ हिरण्यरूपस्स हिरण्यसंदृ गपां नपात् सेदु हिरण्यवर्णः । हिरण्ययात् परि योनेर्निषद्या हिरण्यदा ददत्यन्नमस्मै ॥ १६ ॥ वसिष्वोत्तमवस्त्राणि भूषणै रप्यलङ्कुरु । कुर्वन्नुत्सवम । त्यन्तमस्मदीयं मखं यज व स॑ष्वा॒ हि मि॑येध्य॒ वस्त्रा॑ण्यूज पते ॥ १७ ॥ सेमं नो अध्व॒रं य॑ज । ऋ... आमन्त्रि तोऽसि देवेश पुराणपुरुषोत्त । म । मन्त्रेशैर्लोकपालैश्च सार्धं दे वगणैः श्रिया त्रिकालपूजासु ॥ १८ ॥ दयार्द्रदृष्ट्या मयार्पि तं चार्हणमाशु सत्वम् । गृहाण लोकाधिपते रमेश ममापराधान् सकलान् क्षमस्व ॥ १९ ॥ श्रीमत्सत्यप्रमोदार्य हृन्निवास्यनिलेशिता । सत्यज्ञानानन्तगुणः प्रीयतां बादरायणः ॥ २० ॥ ॥ इति आमन्त्रणोत्सवस्तोत्रम् ॥